|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.88. अध्यायः 088
Mahabharata - Adi Parva - Chapter Topics
पूरुवंशकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-88-0x(565)(3844)
पुत्रं ययातेः प्रबूहि पूरुं धर्मभृतां वरम्।
आनुपूर्व्येण ये चान्ये पूरोर्वंशविवर्धनाः॥ 1-88-1(3845)
विस्तरेण पुनर्ब्रूहि दौष्यन्तेर्जनमेजयात्।
संबभूव यथा राजा भरतो द्विजसत्तम॥ 1-88-2(3846)
वैशम्पायन उवाच। 1-88-3x(566)
पूरुर्नृपतिशार्दूलो यथैवास्य पिता नृप।
धर्मनित्यः स्थितो राज्ये शक्रतुल्यपराक्रमः॥ 1-88-3(3847)
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः।
पूरोः पौष्ट्यामजायन्त प्रवीरो वंशकृत्ततः॥ 1-88-4(3848)
मनस्युरभवत्तस्माच्छूरसेनीसुतः प्रभुः।
पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः॥ 1-88-5(3849)
शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः।
मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः॥ 1-88-6(3850)
अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः।
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः॥ 1-88-7(3851)
यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः।
सर्वे सर्वास्त्रविद्वासः सर्वे धर्मपरायणाः॥ 1-88-8(3852)
ऋचेयुरथ कक्षेयुः कृकणेयुश्च वीर्यवान्।
स्थण्डिलेयुर्वनेयुश्च जलेयुश्च महायशाः॥ 1-88-9(3853)
तेजेयुर्बलावान्धीमान्सत्येयुश्चन्द्रविक्रमः।
धर्मेयुः सन्नतेयुश्च दशमो देवविक्रमः॥ 1-88-10(3854)
अनाधृष्टिरभूत्तेषां विद्वान्भुवि तथैकराट्।
ऋचेयुरथ विक्रान्तो देवानामिव वासवः॥ 1-88-11(3855)
अनाधृष्टिसुतस्त्वासीद्राजसूयाश्वमेधकृत्।
मतिनार इति ख्यातो राजा परमधार्मिकः॥ 1-88-12(3856)
मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः।
तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः॥ 1-88-13(3857)
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन्।
आजहार यशो दीप्तं जिगाय च वसुंधराम्॥ 1-88-14(3858)
ईलिनं तु सुतं तंसुर्जनयामास वीर्यवान्।
सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः॥ 1-88-15(3859)
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः।
ईलिनो जनयामास दुष्यन्तप्रभृतीन्नृपान्॥ 1-88-16(3860)
दुष्यन्तं शूरभीमौ च प्रवसुं वसुमेव च।
तेषां श्रेष्ठोऽभवद्राजा दुष्यन्तो दुर्जयो युधि॥ 1-88-17(3861)
दुष्यन्ताल्लक्षणायां तु जज्ञे वै जनमेजयः।
शकुन्तलायां भरतो दौष्यन्तिरभवत्सुतः॥ 1-88-18(3862)
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः॥ ॥ 1-88-19(3863)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टाशीतितमोऽध्यायः॥ 88 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|